|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.13. अध्यायः 013
Mahabharata - Drona Parva - Chapter Topics
अर्जुनेन द्रोणप्रतिज्ञाभीतस्य युधिष्ठिरस्य समाश्वासनम्॥ 1 ॥ युद्धारम्भो द्रोणपराक्रमश्च॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-13-0x(4292)(45137)
सान्तरे तु प्रतिज्ञाने राज्ञो द्रोणेन निग्रहे।
ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम्।
सिंहनादरवांश्चक्रुर्बाहुशब्दांश्च कृत्स्नशः॥ 7-13-1(45138)
तच्च सर्वं यथान्यायं धर्मराजेन भारत।
आप्तैश्चारैः परिज्ञातं भारद्वाजचिकीर्षितम्॥ 7-13-2(45139)
ततः सर्वान्समानाय्य भ्रातृनन्यांश्च सर्वशः।
अव्रवीद्धर्मराजस्तु धनञ्जयमिदं वचः॥ 7-13-3(45140)
श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम्।
यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम्॥ 7-13-4(45141)
सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रघातिना।
तच्चान्तरममोघेषौ त्वयि तेन समाहितम्॥ 7-13-5(45142)
तत्त्वमद्य महाबाहो युध्यस्व मदनन्तरम्।
यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात्॥ 7-13-6(45143)
अर्जुन उवाच। 7-13-7x(4293)
यथा मे न वधः कार्य आचार्यस्य कथञ्चन।
तथा तव परित्यागो न मे राजंश्चिकीर्षितः॥ 7-13-7(45144)
अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि।
प्रतियाताऽहमाचार्यं त्वां न जह्यां कथञ्चन॥ 7-13-8(45145)
त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति।
न स तं जीवलोकेऽस्मिन्कामं प्राप्ता कथञ्चन॥ 7-13-9(45146)
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकली भवेत्।
न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम्॥ 7-13-10(45147)
यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम्।
विष्णुर्वा सहितो देवैर्न त्वां प्राप्स्यत्यसौ मृधे॥ 7-13-11(45148)
मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि।
द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि॥ 7-13-12(45149)
अन्यच्च ब्रूयां राजेन्द्र प्रतिज्ञां मम निश्चलाम्॥ 7-13-13(45150)
न स्मराम्यनृतं तावन्न स्मरामि पराजयम्।
न स्मरामि प्रतिश्रुत्य विस्मृत्य मनस्वऽकृतम्॥ 7-13-14(45151)
सञ्जय उवाच। 7-13-15x(4294)
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह।
प्रावाद्यन्त महाराज पाण्डवानां निवेशने॥ 7-13-15(45152)
सिंहनादश्च संजज्ञे पाण्डवानां महात्मनाम्॥
धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः॥ 7-13-16(45153)
श्रुत्वा शङ्खस्य निर्घोषं पाण्डवस्य महौजसः।
त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे॥ 7-13-17(45154)
ततो व्यूढान्यनीकानि तव तेषां च भारत।
शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे॥ 7-13-18(45155)
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्।
पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि॥ 7-13-19(45156)
यतमानाः प्रयतेन द्रोणानीकविशातने।
न शेकुः सृञ्जया युद्धे तद्धि द्रोणेन पालितम्॥ 7-13-20(45157)
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः।
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटीना॥ 7-13-21(45158)
आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम्।
सम्प्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते॥ 7-13-22(45159)
ततो रुक्मरथो राजन्नर्केणेव विराजता।
वरूथिना विनिष्पत्य व्यचरत्पृतनामुखे॥ 7-13-23(45160)
तमुद्यन्तं रथेनैकमाशुकारिणमाहवे।
अनेकमिव सन्त्रसान्मेनिरे पाण्डुसृञ्जयाः॥ 7-13-24(45161)
तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम्।
त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम्॥ 7-13-25(45162)
मध्यन्दिनमनुप्राप्तो गभस्तिशतसंवृतः।
यथा दृश्येत घर्मोशुस्तथा द्रोणोऽप्यदृश्यत॥ 7-13-26(45163)
न चैनं पाण्डवेयानां कश्चिच्छक्नोति भारत।
वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः॥ 7-13-27(45164)
मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान्।
धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः॥ 7-13-28(45165)
स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः।
पार्षतो यत्र तत्रैनामभिनत्पाण्डुवाहिनीम्॥ ॥ 7-13-29(45166)
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि एकादशदिवसयुद्धे त्रयोदशोऽध्यायः॥ 13 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-13-22 सम्प्रसुप्ते कृतपत्रसङ्कोचे॥ 5-13-23 वरूथिना रथेन॥ 5-13-13 त्रयोदशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|